Grah


श्रीछिन्नमस्ताहृदयम् एवं कवच

10626664_482736968530628_2521022033649763193_n

श्रीछिन्नमस्ताहृदयम्
==============
श्रीपार्वत्युवाच-

श्रुतं पूजादिकं सम्यग्भवद्वक्त्राब्जनिःसृतम् ।
हृदयं छिन्नमस्तायाः श्रोतुमिच्छामि साम्प्रतम् ॥१॥

ॐ महादेव उवाच

नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे ।
यत्वया परिपृष्टोऽहं वक्ष्ये प्रीत्यै तव प्रिये ॥२॥

ऋष्यादिन्यासः -
==========

ॐ अस्य श्रीछिन्नमस्ताहृदयस्तोत्रमन्त्रस्य भैरव ऋषिः ,
सम्राट् छन्दः , छिन्नमस्ता देवता , हूं बीजम् ,
ॐ शक्तिः , ह्रीं कीलकं , शत्रुक्षयकरणार्थे पाठे विनियोगः ॥

ॐ भैरवऋषये नमः शिरसि ।
ॐ सम्राट्छन्दसे नमो मुखे ।
ॐ छिन्नमस्तादेवतायै नमो हृदि ।
ॐ हूं बीजाय नमो गुह्ये ।
ॐ ॐ शक्तये नमः पादयोः ।
ॐ ह्रीं कीलकाय नमो नाभौ ।
ॐ विनियोगाय नमः सर्वाङ्गे ।

करन्यासः -
======
ॐ ॐ अङ्गुष्ठाभ्यां नमः ।
ॐ हूं तर्जनीभ्यां नमः ।
ॐ ह्रीं मध्यमाभ्यां नमः ।
ॐ ऐं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः ।
ॐ हूं करतलकरपृष्ठाभ्यां नमः ।

इति हृदयादिषडङ्गन्यासः -
================
ॐ ॐ हृदयाय नमः ।
ॐ हूं शिरसे स्वाहा ।
ॐ ह्रीं शिखायै वषट् ।
ॐ ऐं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषट् ।
ॐ हूं अस्त्राय फट् ।

अथ ध्यानम् :-
-------------
रक्ताभां रक्तकेशीं करकमललसत्कर्त्रिकां कालकान्तिं
विच्छिन्नात्मीयमुण्डासृगरुणबहुलोदग्रधारां पिबन्तीम् ।
विघ्नाभ्रौघप्रचण्डश्वसनसमनिभां सेवितां सिद्धसङ्घैः
पद्माक्षीं छिन्नमस्तां छलकरदितिजच्छेदिनीं संस्मरामि ॥

हृदयस्त्रोत्र पाठ
-----------------

वन्देऽहं छिन्नमस्तां तां छिन्नमुण्डधरां पराम् ।
छिन्नग्रीवोच्छटाच्छन्नां क्षौमवस्त्रपरिच्छदाम् ॥२॥

सर्वदा सुरसङ्घेन सेविताङ्घ्रिसरोरुहाम् ।
सेवे सकलसम्पत्त्यै छिन्नमस्तां शुभप्रदाम् ॥३॥

यज्ञानां योगयज्ञाय या तु जाता युगे युगे ।
दानवान्तकरीं देवीं छिन्नमस्तां भजामि ताम् ॥४॥

वैरोचनीं वरारोहां वामदेवविवर्द्धिताम् ।
कोटिसूर्य्यप्रभां वन्दे विद्युद्वर्णाक्षिमण्डिताम् ॥५॥

निजकण्ठोच्छलद्रक्तधारया या मुहुर्मुहुः ।
योगिनीस्तर्पयन्त्युग्रा तस्याश्चरणमाश्रये ॥६॥

हूमित्येकाक्षरं मन्त्रं यदीयं युक्तमानसः ।
यो जपेत्तस्य विद्वेषी भस्मतां याति तां भजे ॥७॥

हूं स्वाहेति मनुं सम्यग्यः स्मरत्यर्तिमान्नरः ।
छिनत्ति च्छिन्नमस्ताया तस्य बाधां नमामि ताम् ॥८॥

यस्याः कटाक्षमात्रेण क्रूरभूतादयो द्रुतम् ।
दूरतः सम्पलायन्ते च्छिन्नमस्तां भजामि ताम् ॥९॥

क्षितितलपरिरक्षाक्षान्तरोषा सुदक्षा
छलयुतखलकक्षाच्छेदने क्षान्तिलक्ष्या ।
क्षितिदितिजसुपक्षा क्षोणिपाक्षय्यशिक्षा
जयतु जयतु चाक्षा च्छिन्नमस्तारिभक्षा ॥१०॥

कलिकलुषकलानां कर्त्तने कर्त्रिहस्ता
सुरकुवलयकाशा मन्दभानुप्रकाशा ।
असुरकुलकलापत्रासिकाऽम्लानमूर्ति
जयतु जयतु काली च्छिन्नमस्ता कराली ॥११॥

भुवनभरणभूरिभ्राजमानानुभावा
भवभवविभवानां भारणोद्भातभूतिः ।
द्विजकुलकमलानां भासिनी भानुमूर्ति
भवतु भवतु वाणी च्छिन्नमस्ता भवानी ॥१२॥

मम रिपुगणमाशु च्छेत्तुमुग्रं कृपाणं
सपदि जननि तीक्ष्णं छिन्नमुण्डं गृहाण ।
भवतु तव यशोऽलं छिन्धि शत्रून्खलान्मे
मम च परिदिशेष्टं छिन्नमस्ते क्षमस्व ॥१३॥

छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता ।
क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादनक्षमा ॥१४॥

वैरोचनी वरारोहा बलिदानप्रहर्षिता ।
बलिपूजितपादाब्जा वासुदेवप्रपूजिता ॥१५॥

इति द्वादशनामानि च्छिन्नमस्ताप्रियाणि यः ।
स्मरेत्प्रातः समुत्थाय तस्य नश्यन्ति शत्रवः ॥१६॥

यां स्मृत्वा सन्ति सद्यः सकलसुरगणाः सर्वदा सम्पदाढ्याः
शत्रूणां सङ्घमाहत्य विशदवदनाः स्वस्थचित्ताः श्रयन्ति ।
तस्याः सङ्कल्पवन्तः सरसिजचरणां सततं संश्रयन्ति साऽऽद्या
श्रीशादिसेव्या सुफलतु सुतरं छिन्नमस्ता प्रशस्ता ॥१७॥

इदं हृदयमज्ञात्वा हन्तुमिच्छति यो द्विषम् ।
कथं तस्याचिरं शत्रुर्नाशमेष्यति पार्वति ॥१८॥

यदीच्छेन्नाशनं शत्रोः शीघ्रमेतत्पठेन्नरः ।
छिन्नमस्ता प्रसन्ना हि ददाति फलमीप्सितम् ॥१९॥

शत्रुप्रशमनं पुण्यं समीप्सितफलप्रदम् ।
आयुरारोग्यदं चैव पठतां पुण्यसाधनम् ॥२०॥

॥इति श्रीनन्द्यावर्ते महादेवपार्वतीसंवादेश्रीछिन्नमस्ताहृदयस्तोत्रं सम्पूर्णम् ॥

छिन्नमस्ता-कवच
-----------------
हुँ बीजात्मिका देवी मुण्डकर्तृधरापरा ।
हृदयं पातु सा देवी वर्णिनी डाकिनीयुता ॥

श्रीं ह्रीं हुं ऐं चैव देवी पूर्वस्य पातु सर्वदा।
सर्वाङ्ग मे सदा पातु छिन्नमस्ता महाबला ॥

वज्रवैरोचनीये हुं फट् बीजसमन्विता ।
उत्तरयां तथाsग्नौ च वारुणे नैर्ऋतेवतु ॥

इन्द्राक्षी भैरवी चैवासिताङ्गी च संहारिणी।
सर्वदा पातु मां देवी चान्यान्यासु हि दिक्षु वै ॥

इदं कवचंज्ञात्वा यो जपेच्छिन्नमस्तकाम् ।
न तस्य फलसिद्धि: स्यात्कल्पकोटिशतैरपि ॥

Comments (0)

Leave Reply

Testimonial



Flickr Photos

Send us a message


Sindhu - Copyright © 2024 Amit Behorey. All Rights Reserved. Website Designed & Developed By : Digiature Technology Pvt. Ltd.